दिवित्येतस्य द्यावा इत्ययम् आदेशो भवति देवताद्वन्द्वे उत्तरपदे। द्यावाक्षामा। द्यावाभूमी।
दिवो द्यावा। शेषपूरणेन सूत्रं व्याचष्टे--देवताद्वन्द्वे इति। द्यावाभूमि इति। द्यौश्च भूमिश्चेति विग्रहः। द्यावाक्षामा रुक्मो अन्तर्विभाति" इति ऋचि पठितमिदम्। द्यावापृथिव्योरित्यर्थः। द्यौश्च क्षामा चेति विग्रहः। क्षामाशब्दो भुमिपर्यायो वेदे। तत्र द्वन्द्वे दिवो द्यावादेशः। षष्ठ()आस्तु "सुपां सुलुक्िति डादेशः, "देवताद्वन्द्वे चे"ति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम्।